प्रक्षिप्तवाददुर्मतमर्दिनी
हिन्दुमुख्यधारायां प्रचलितो वाद एको विद्यते प्रक्षिप्तवादो नाम। तद्वादानुसारेण हिन्दुग्रन्थाः सर्वे मिश्रिता अवैदिकपन्थानुयायिभिर् यतः…
प्रक्षिप्तवाददुर्मतमर्दिनी

हिन्दुमुख्यधारायां प्रचलितो वाद एको विद्यते प्रक्षिप्तवादो नाम। तद्वादानुसारेण हिन्दुग्रन्थाः सर्वे मिश्रिता अवैदिकपन्थानुयायिभिर् यतः प्रक्षिप्ता अवैदिकमतप्रवर्तकैश् श्लोकैर् हिन्दुग्रन्थास् तद्वादः प्रक्षिप्तवाद उच्यते। नानापन्थानो बौद्धजैनम्लेच्छादयो यवितारो हिन्दुग्रन्थानां काले विभिन्ने इति मतं प्रक्षिप्तवादिनाम्। किन्तु प्रक्षिप्तश्लोकस्य को लिङ्ग इति न प्रक्षिप्तवादिनाम् एकाग्रमतम् अस्मिन्। कया विधिना प्रणाल्या च प्रक्षिप्तश्लोका अवगम्यन्ते इति अस्मिनपि न तेषाम् एकाग्रमतं विद्यते। तत्तु केन कारणेन प्रक्षिप्तवादिनो ग्रन्थानां प्रक्षिप्तीकृते आतिष्ठन्ति। स्वसम्प्रदायिकमतप्रमाणाभावात् प्रक्षिप्तवादनम् आश्रयन्ति प्रक्षिप्तवादिनः। अर्थाद् यस्मिन् ग्रन्थे स्वमतप्रवर्तकाश् श्लोका न विद्यन्ते तद्ग्रन्थः स्वतः प्रक्षिप्तो मन्यते। अत एव नानाप्रक्षिप्तवादिनां नानाप्रणालयः प्रक्षिप्तश्लोकस्य चिन्हीकरणे। उदाहरणार्थं श्रीवैष्णवसम्प्रदायप्रक्षिप्तवादमतम् अनुवदे।
श्रीवैष्णवसम्प्रदायानुयायिन ईसासम्वच्चतुर्दशशताब्दीपूर्वकान् प्रकाशितग्रन्थान् प्रत्यक्षप्रक्षिप्तान् मन्यन्ते यतो हि तेषां गुरुपरम्परा ईसासम्वच्चतुर्दशशताब्द्याम् आरेभे। अतो यावत् कश्चन ग्रन्थस् तदीयपरम्पराचार्येण सन्दर्भरूपेण न अनूक्तस् तावत् तद्ग्रन्थः प्रत्यक्षप्रक्षिप्तो भवति। किन्तु हिन्दुसनातनधर्मश् चिरकालात् प्रचलन् अस्ति तत् किं ईसासम्वच्चतुर्दशशताब्दीपूर्वको हिन्द्वितहासः प्रक्षिप्तो वा। घोरी देवधर्मनिन्दा इयं न अन्यथा। स्वाल्पकालिकपरम्परागौरवसार्थकतायै बृहत्कालिकसनातनपरम्पराया लाघवसिद्धिः कुतर्कैर् मूढत्वम् एव।
विवादार्थं यदि तन्मतं मन्यते तर्हि श्रीवैष्णवपरम्परा न प्रक्षिप्तीकरणदोषेण लिप्ता नु। किन्तु तदाचार्येण एव स्वकृतग्रन्थे ग्रन्थप्रक्षेपणार्थं प्रायत्यत। तत्प्रमाणर्थं शतदूषण्यां वेदान्तदेशकप्रणितायां ब्रह्मशब्दवृत्त्यनुपपत्तिवादो नाम अध्याये उद्धृतम् इदम् अशं प्रेषितम् -
तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने गारुडे इति च स्मर्यते।
न उक्तश् श्लोकार्धांशो गरुडपुराणे विद्यते केनापि रुपेण। अर्थात् स्वप्रणितग्रन्थे स्वमतप्रमाणार्थं कृतश् श्लोकार्धाशो वेदान्तदेशिकेन स्वसम्प्रदायगौरवप्रवर्तकेन। न तु गारुडे तदीप्सितमात्रायां श्रीवैष्णवमतप्रवर्तकश्लोका विद्यन्ते यस्मान् नवीनश्लोककरणम् आवश्यकं प्रत्याभायत तेन। अर्थात् प्रक्षिप्तवादिनो ग्रन्थानां प्रक्षिप्तावस्थायाम् आतिष्ठति ततोऽपि स्वतो ग्रन्थानां प्रक्षेपणार्थं प्रयतन्ते। अतो नानाप्रक्षिप्तवादिनो नानास्वार्थसिद्धये आश्रयन्ति तद्दुर्मतम् उत यथासामर्थ्यं ग्रन्थप्रक्षेपणकार्येष्वपि रमन्ते न अन्यथा।
यस्य बुद्धिः कुलम्मेधाः प्रक्षिप्ताः कलिना हि च।
ग्रन्थेषु ते ह पश्यन्ति सर्वश्लोकाङ् कृतासतः ॥
메타데이터
- post_id
- 9c82cfcfb69e
- slug
- प्रक्षिप्तवाददुर्मतमर्दिनी-9c82cfcfb69e
- url
- https://medium.com/@kalavijaya/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%A6%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%A4%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%BF%E0%A4%A8%E0%A5%80-9c82cfcfb69e
- canonical_url
- https://medium.com/@kalavijaya/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%A6%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%A4%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%BF%E0%A4%A8%E0%A5%80-9c82cfcfb69e
- author_url
- https://medium.com/@kalavijaya
- status
- ok
- fetched_at
- 2026-07-09 22:40:01